Class 8 Sanskrit Chapter 1 संगच्छध्वं संवदध्वम् | Class 8 Sanskrit Deepakam Solutions all Chapters


यहां संस्कृत कक्षा 8 अध्याय 1 संगच्छध्वं संवदध्वम् के प्रश्न उत्तर के बारे में विस्तार से चर्चा की गई है - कक्षा 8 संस्कृत पाठ 1 के प्रश्न उत्तर संगच्छध्वं संवदध्वम्


Sanskrit Class 8 Chapter 1 Question Answer संगच्छध्वं संवदध्वम्

Class 8 Sanskrit Chapter 1 NCERT Solutions संगच्छध्वं संवदध्वम्


प्रश्न। 1. संज्ञानसूक्तं सस्वरं पठत स्मरत लिखत च -

(सञ्ज्ञानसूक्त का सस्वर पाठ करें, याद करें और लिखें।)

उत्तरम् : विद्यार्थी स्वयं करें।

प्रश्न। 2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-

(क) सर्वेषां मनः कीदृशं भवेत् ?

(ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः ?

(ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः ?

(घ) अस्मिन् पाठे का प्रेरणा अस्ति ?

उत्तराणि :

(क) सर्वेषां मनः समानं भवेत् ।

(ख) अस्य अभिप्रायः अस्ति यद् मिलित्वा अग्रे गच्छत, एक-स्वरेण वदत ।

(ग) सर्वे वैमनस्य परित्यज्य ऐक्यभावेन जीवेयुः ।

(घ) अस्मिन् पाठे एकतायाः प्रेरणां अस्ति ।

प्रश्न। 3. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

(रेखांकित पदों के आधार पर प्रश्ननिर्माण करें।)

(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।

उत्तरम् :  कः सर्वत्र व्याप्तः अस्ति?

(ख) वयम् ईश्वरं नमामः ।

उत्तरम् : वयम् कम् नमाम: ?

(ग) वयम् ऐक्यभावेन जीवामः ।

उत्तरम् : वयम् कथम् जीवामः ?

(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते ।

उत्तरम् : कस्य प्रार्थनया शान्तिः प्राप्यते ?

(ङ) अहं समाजाय श्रमं करोमि ।

उत्तरम् :अहं कस्मै श्रमं करोमि?

(च) अयं पाठः ऋग्वेदात् सङ्कलितः ।

उत्तरम् : अयं पाठः कस्मात् सङ्कलितः ?

(छ) वेदस्य अपरं नाम श्रुतिः ।

उत्तरम् : कस्य अपरं नाम श्रुति: ?

(ज) मन्त्राः वेदेषु भवन्ति।

उत्तरम् : मन्त्राः केषु / कुत्र भवन्ति ?

प्रश्न। 4. पट्टिकातः शब्दान् चित्वा अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत-

(पट्टिका से शब्द चुनकर निम्नलिखित मन्त्रों में रिक्तस्थान पूरा करें)

 संवदध्वं, समितिः, आकूति:, भागं, मन:, हृदयानि, जानाना, समानं, मनो, हविषा, सुसहासति, मनांसि


(क) सङ्गच्छध्वं ____________ सं वो ____________ जानताम्।
देवा ____________ यथा पूर्वे सं ____________ उपासते।

उत्तराणि : 

सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे सं जानाना उपासते ।

(ख) समानो ‘मन्त्रः ____________ समानी समानं ____________ सह चित्तमेषाम् ।
____________ मन्त्रमभिमन्त्रये वः समानेन वो ____________ जुहोमि ।

उत्तराणि :

समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि ।

(ग) समानी व ____________ समाना ____________ वः।
समानमस्तु वो ____________ यथा वः ____________ ।

उत्तराणि :

समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ।

प्रश्न। 5. पाठे प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत-

(पाठ में प्रयुक्त शब्दों का भाव के अनुसार मेल करें)

 (क) संगछध्वम्

 सेवन्ते

 (ख) संवदध्वम्

 चित्तम्

 (ग) मनः

 मिलित्वा चलत

 (घ) उपासते

सङ्कल्पः 

 (ङ) वसूनि

 समस्तानि

 (च) विश्वानि

 एकस्वरेण वदत

 (छ) आकूति:

 धनानि



उत्तराणि :

 (क) संगछध्वम्

 मिलित्वा चलत

 (ख) संवदध्वम्

 एकस्वरेण वदत

 (ग) मनः

 चित्तम्

 (घ) उपासते

 सेवन्ते

 (ङ) वसूनि

 धनानि

 (च) विश्वानि

 समस्तानि

 (छ) आकूति:

 सङ्कल्पः




प्रश्न। 6. उदाहरणानुसारेण लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत-

(उदाहरण के अनुसार लट् लकार के वाक्यों को लोट्)

लकार में परिवर्तित करें-

यथा – बालिकाः नृत्यन्ति – बालिकाः नृत्यन्तु।

(क) बालकाः हसन्ति – ______________
(ख) युवां तत्र गच्छथः – ______________
(ग) यूयं धावथ – ______________
(घ) आवां लिखावः – ______________
(ङ) वयं पठामः – ______________

उत्तराणि :

(क) बालकाः हसन्तु ।
(ख) युवां तत्र गच्छतम्।
(ग) यूयं धावत।
(घ) आवां लिखाव ।
(ङ) वयं पठाम।

योग्यताविस्तारः


वेदाः – ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेदः ।
ब्राह्मणानि – ऐतरेयः, शतपथ:, सामविधानं, गोपथः, इत्यादयः।
उपनिषदः (प्रसिद्धा:) – ईश, केन, कठ, प्रश्नः, मुण्डकः, माण्डूक्यः, ऐतरेयः, तैत्तिरीयः, छान्दोग्यः, बृहदारण्यकः, इत्यादयः।
उपवेदाः – आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः, अर्थवेद: / स्थापत्यवेदः ।
वेदोपाङ्गानि / षड् दर्शनानि – न्यायः, वैशेषिकं, साङ्ख्यं, योग:, पूर्व-मीमांसा, उत्तर – मीमांसा (वेदान्तः)।
वेदाङ्गानि – शिक्षा, व्याकरणं, छन्दः, निरुक्तं, ज्योतिषं, कल्पः।

ऋग्वेदः –
ऋग्वेदे मन्त्राणां सङ्ख्या – दश सहस्राणि, पञ्च शतानि, द्विपञ्चाशत् च (१०,५५२) मन्त्राः सन्ति। अस्य ग्रन्थस्य विभजनं द्विधा भवति-
१. मण्डलक्रमः – ( १० मण्डलानि, ८५ अनुवाकाः, १,०२८ सूक्तानि)
२. अष्टकक्रमः – (८ अष्टकाः, प्रत्यष्टकम् ८ अध्यायाः, आहत्य ६૪अध्यायाः)

अस्य पाठस्य आधारः – ऋग्वेदस्य अन्तिमस्य दशम-मण्डलस्य, अन्तिमम् एकशताधिकएकनवतितमं (१०. १९१) सूक्रम् अस्ति, यत् ‘संज्ञान-सूक्तम्’, ‘संघटन-सूक्तम्’ वेति नामभ्यां प्रसिद्धम् अस्ति।


परियोजनाकार्यम्

१. अस्य सूक्तस्य भावार्थं मित्रै: सह मातृभाषया चर्चयत।
२. संज्ञानसूक्तम् इव ऋग्वेदस्य पञ्चानां सूक्तानां नामानि लिखत।
३. संज्ञानसूक्तस्य आधारेण भवत्सु एकतां स्थापयितुं विविधान् उपायान् अध्यापकै: सह आलोचयत।

अत्र इदम् अवधेयम्

1. सामान्यतया गम्-धातुः परस्मैपदी अस्ति । यदा ‘सम्’ इति उपसर्गयुक्तः गम्-धातुः भवति तदा तस्य आत्मनेपदरूपाणि भवन्ति ।
अर्थः-सामान्यतः गम् धातु परस्मैपदी है। जब ‘सम्’
उपसर्ग से युक्त ‘गम्’ धातु होता है, तब उसके आत्मनेपदीरूप होते हैं।
यथा— गम् + ति = गच्छति।
सम् + गच्छति = सङ्गच्छते ।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post